धातु-रूपावली संस्कृत व्याकरण – धातु रूप, लकार एवं प्रयोग सहित
धातु-रूपावली
विभिन्न धातुओं के रूप
हन् (मारना)
लट् (वर्तमानकाल)
एकवचन द्विवचन बहुवचन
प्रथम पुरुष हन्ति हतः घ्नन्ति
मध्यम पुरुष हंसि हथः हथ
उत्तम पुरुष हन्मि हन्वः हन्मः
लोट् (अनुज्ञा)
प्रथम पुरुष हन्तु हताम् घ्नन्तु
मध्यम पुरुष जहि हतम् हत
उत्तम पुरुष हनानि हनाव हनाम
लङ् (भूतकाल)
प्रथम पुरुष अहन् अहताम् अघ्नन्
मध्यम पुरुष अहन् अहतम् अहत
उत्तम पुरुष अहनम् अहन्व अहन्म
विधिलिङ्
प्रथम पुरुष हन्यात् हन्याताम् हन्युः
मध्यम पुरुष हन्याः हन्यातम् हन्यात
उत्तम पुरुष हन्याम् हन्याव हन्याम
लृट् (भविष्यत्काल)
प्रथम पुरुष हनिष्यति हनिष्यतः हनिष्यन्ति
मध्यम पुरुष हनिष्यसि हनिष्यथ: हनिष्यथ
उत्तम पुरुष हनिष्यामि हनिष्यावः हनिष्यामः
अस् (होना)
लट् (वर्तमानकाल)
एकवचन द्विवचन बहुवचन
प्रथम पुरुष अस्ति स्तः सन्ति
मध्यम पुरुष असि स्थः स्थ
उत्तम पुरुष अस्मि स्वः स्मः
लोट् (अनुज्ञा)
प्रथम पुरुष अस्तु स्ताम् सन्तु
मध्यम पुरुष एधि स्तम् स्त
उत्तम पुरुष असानि असाव असाम
लङ् (भूतकाल)
प्रथम पुरुष आसीत् आस्ताम् आसन्
मध्यम पुरुष आसीः आस्तम् आस्त
उत्तम पुरुष आसम् आस्व आस्म
विधिलिङ्
प्रथम पुरुष स्यात् स्याताम् स्युः
मध्यम पुरुष स्याः स्यातम् स्यात
उत्तम पुरुष स्याम् स्याव स्याम
लृट् (भविष्यत्काल) (अस् = भू)
प्रथम पुरुष भविष्यति भविष्यतः भविष्यन्ति
मध्यम पुरुष भविष्यसि भविष्यथः भविष्यथ
उत्तम पुरुष भविष्यामि भविष्यावः भविष्यामः
कृ (करना)
लट् (वर्तमानकाल)
एकवचन द्विवचन बहुवचन
प्रथम पुरुष करोति कुरुतः कुर्वन्ति
मध्यम पुरुष करोषि कुरुथः कुरुथ
उत्तम पुरुष करोमि कुर्वः कुर्मः
लोट् (अनुज्ञा)
प्रथम पुरुष करोतु कुरुताम् कुर्वन्तु
मध्यम पुरुष कुरु कुरुतम् कुरुत
उत्तम पुरुष करवाणि करवाव करवाम
लङ् (भूतकाल)
प्रथम पुरुष अकरोत् अकुरुताम् अकुर्वन्
मध्यम पुरुष अकरोः अकुरुतम् अकुरुत
उत्तम पुरुष अकरवम् अकुर्व अकुर्म
विधिलिङ्
प्रथम पुरुष कुर्यात् कुर्याताम् कुर्युः
मध्यम पुरुष कुर्याः कुर्यातम् कुर्यात
उत्तम पुरुष कुर्याम् कुर्याव कुर्याम
लृट् (भविष्यत्काल)
प्रथम पुरुष करिष्यति करिष्यतः करिष्यन्ति
मध्यम पुरुष करिष्यसि करिष्यथः करिष्यथ
उत्तम पुरुष करिष्यामि करिष्यावः करिष्यामः
आत्मनेपद की व्यावहारिक विभक्तियाँ
लट् (वर्तमानकाल)
एकवचन द्विवचन बहुवचन
प्रथम पुरुष ते एते (आते) अन्ते (अते)
मध्यम पुरुष से एथे (आथे) ध्वे
उत्तम पुरुष ए (इ) आवहे (वहे) आमहे (महे)
लोट् (अनुज्ञा)
प्रथम पुरुष ताम् एताम् (आताम्) अन्ताम् (अताम्)
मध्यम पुरुष स्व एथाम् (आथाम्) ध्वम्
उत्तम पुरुष ऐ आवहै आमहै
लङ् (भूतकाल)
प्रथम पुरुष त एताम् (आताम्) अन्त (अत)
मध्यम पुरुष थाः एथाम् (आथाम्) ध्वम्
उत्तम पुरुष ए (इ) आवहि (वहि) आमहि (महि)
विधिलिङ्
प्रथम पुरुष एत (ईत) एयाताम् (ईयाताम्) एरन् (ईरन्)
मध्यम पुरुष एथाः (ईथाः) एयाथाम् (ईयाथाम्) एध्वम् (ईध्वम्)
उत्तम पुरुष एय (ईय) एवहि (ईवहि) एमहि (ईमहि)
लृट् (भविष्यत्काल)
प्रथम पुरुष इष्यते (स्यते) इष्येते (स्येते) इष्यन्ते (स्यन्ते)
मध्यम पुरुष इष्यसे (स्यसे) इष्येथे (स्येथे) इष्यध्वे (स्यध्वे)
उत्तम पुरुष इष्ये (स्ये) इष्यावहे (स्यावहे) इष्यामहे (स्यामहे)
कृ = करना (आत्मनेपदी)
लट् (वर्तमानकाल)
एकवचन द्विवचन बहुवचन
प्रथम पुरुष कुरुते कुर्वाते कुर्वते
मध्यम पुरुष कुरुषे कुर्वाथे कुरुध्वे
उत्तम पुरुष कुर्वे कुर्वहे कुर्महे
लोट् (अनुज्ञा)
प्रथम पुरुष कुरुताम् कुर्वाताम् कुर्वताम्
मध्यम पुरुष कुरुष्व कुर्वाथाम् कुरुध्वम्
उत्तम पुरुष करवै करवावहै करवामहै
लङ् (भूतकाल)
प्रथम पुरुष अकुरुत अकुर्वाताम् अकुर्यत
मध्यम पुरुष अकुरुथाः अकुर्वाथाम् अकुरुध्वम्
उत्तम पुरुष अकुर्वि अकुर्वहि अकुर्महि
विधिलिङ्
प्रथम पुरुष कुर्वीत कुर्वीयाताम् कुर्वीरन्
मध्यम पुरुष कुर्वीथाः कुर्वीयाथाम् कुर्वीध्वम्
उत्तम पुरुष कुर्वीय कुर्वीवहि कुर्वीमहि
लृट् (भविष्यत्काल)
प्रथम पुरुष करिष्यते करिष्येते करिष्यन्ते
मध्यम पुरुष करिष्यसे करिष्येथे करिष्यध्वे
उत्तम पुरुष करिष्ये करिष्यावहे करिष्यामहे
अद् (खाना)
लट् (वर्तमानकाल)
एकवचन द्विवचन बहुवचन
प्रथम पुरुष अत्ति अत्तः अदन्ति
मध्यम पुरुष अत्सि अत्थः अत्थ
उत्तम पुरुष अद्मि अद्वः अद्मः
लोट् (अनुज्ञा)
प्रथम पुरुष अतु अत्ताम् अदन्तु
मध्यम पुरुष अद्धि अत्तम् अत्त
उत्तम पुरुष अदानि अदाव अदाम
लङ् (भूतकाल)
प्रथम पुरुष आदत् आत्ताम् आदन्
मध्यम पुरुष आदः आत्तम् आत्त
उत्तम पुरुष आदम् आद्व आद्म
विधिलिङ्
प्रथम पुरुष अद्यात् अद्याताम् अद्युः
मध्यम पुरुष अद्याः अद्यातम् अद्यात
उत्तम पुरुष अद्यम् अद्याव अद्याम
लृट् (भविष्यत्काल)
प्रथम पुरुष अत्स्यति अत्स्यतः अत्स्यन्ति
मध्यम पुरुष अत्स्यसि अत्स्यथः अत्स्यथ
उत्तम पुरुष अत्स्यामि अत्स्यावः अत्स्यामः
तन् (फैलाना)
लट् (वर्तमानकाल)
एकवचन द्विवचन बहुवचन
प्रथम पुरुष तनोति तनुतः तन्वन्ति
मध्यम पुरुष तनोषि तनुथः तनुथ
उत्तम पुरुष तनोमि तनुवः, तन्वः तनुमः, तन्मः
लोट् (अनुज्ञा)
प्रथम पुरुष तनोतु तनुताम् तन्वन्तु
मध्यम पुरुष तनु तनुतम् तनुत
उत्तम पुरुष तनवानि तनवाव तनवाम
लङ् (भूतकाल)
प्रथम पुरुष अतनोत् अतनुताम् अतन्वन्
मध्यम पुरुष अतनोः अतनुतम् अतनुत
उत्तम पुरुष अतनवम् अतनुव, अतन्व अतनुम, अतन्म
विधिलिङ्
प्रथम पुरुष तनुयात् तनुयाताम् तनुयुः
मध्यम पुरुष तनुयाः तनुयातम् तनुयात
उत्तम पुरुष तनुयाम् तनुयाव तनुयाम
लृट् (भविष्यत्काल)
प्रथम पुरुष तनिष्यति तनिष्यतः तनिष्यन्ति
मध्यम पुरुष तनिष्यसि तनिष्यथः तनिष्यथ
उत्तम पुरुष तनिष्यामि तनिष्यावः तनिष्यामः
अनुवाद
वे घर जाते हैं— ते गृहं गच्छन्ति।
राम कल मुंगेर जाएगा— रामः श्वः मुद्गलपुरं गमिष्यति ।
तुम घर जाओ— त्वम् गृहं गच्छ।
वे विद्यालय में ठहरते हैं— ते विद्यालये तिष्ठन्ति ।
मैं कहाँ ठहरूँगा? — अहं कुत्र स्थास्यामि ?
साधु के आश्रम में कौन है ? — साधोः आश्रमे कोऽस्ति?
क्या तुम गङ्गा का जल पीते हो ? — किं त्वं गङ्गायाः जलं पिबसि ?
लोग तमाशा देखते हैं— जनाः कौतुकं पश्यन्ति।
बच्चा चन्द्रमा देखेगा— बालः चन्द्रं द्रक्ष्यति।
लड़के फूल सूँघते हैं— बालकाः पुष्पं जिघ्रन्ति ।
तुम दोनों घर जाओ— युवाम् गृहं गच्छतम्।
वह गरीब को अन्न देता है— स निर्धनाय अन्नं यच्छति ।
मैं छात्र को पुस्तक दूँगा — अहं छात्राय पुस्तकं दास्यामि।
सत्संगति से यश फैलता है— सत्संगतिः कीर्तिं तनोति ।
दुर्गा ने महिषासुर को मारा — दुर्गा महिषासुरं अहन् ।
अभ्यास
1. संस्कृत में अनुवाद करें—
वे वहाँ क्या करते हैं? तुमने पुस्तक दी। साधु के आश्रम में रमेश क्या करता है? लड़के सुबह में टहलें। अयोध्या के राजा दशरथ थे। शीघ्र काम करो। राधा क्या खाएगी? मैं पाँचवें दिन मुंगेर जाऊँगा। कौन - कौन छात्र घर जाएँगे ? चार लड़कियाँ पढ़ती हैं। रमेश के पास तीन आम हैं। तीन लड़के घर गए। दो लताओं में फूल हैं।
शब्द-संकेत—
क्या— किम्, पाँचवें— पञ्चमे, मुंगेर — मुद्गलपुरम्, कौन-कौन — के के, चार— चतस्रः, तीन (नपुं०) — त्रीणि, तीन (पुं०) — त्रयः
2. निम्नलिखित पदों का वाक्यों में प्रयोग करें।
एका, द्वे (नपुं०), तिस्रः, चत्वारः, पञ्च, चतुर्थः, षष्ठी, सप्तमम्, दशमे
3. निम्नलिखित क्रिया-पदों का वाक्यों में प्रयोग करें।
हन्यात्, अकरोत्, आसीत्, अतनोत्, अदन्ति, जहि
4. निम्नलिखित धातुओं के रूप लोट् लकार के उत्तम पुरुष के सभी वचनों में लिखें।
कृ, हन्, अस्, तन्, प्रच्छ्, दा
इष् (इच्छ) — चाहना
लट् (वर्तमानकाल)
एकवचन द्विवचन बहुवचन
प्रथम पुरुष इच्छति इच्छतः इच्छन्ति
मध्यम पुरुष इच्छसि इच्छथः इच्छथ
उत्तम पुरुष इच्छामि इच्छावः इच्छामः
लोट् (अनुज्ञा)
प्रथम पुरुष इच्छतु इच्छताम् इच्छन्तु
मध्यम पुरुष इच्छ इच्छतम् इच्छत
उत्तम पुरुष इच्छानि इच्छाव इच्छाम
लङ् (भूतकाल)
प्रथम पुरुष ऐच्छत् ऐच्छताम् ऐच्छन्
मध्यम पुरुष ऐच्छः ऐच्छतम् ऐच्छत
उत्तम पुरुष ऐच्छम् ऐच्छाव ऐच्छाम
विधिलिङ्
प्रथम पुरुष इच्छेत् इच्छेताम् इच्छेयुः
मध्यम पुरुष इच्छेः इच्छेतम् इच्छेत
उत्तम पुरुष इच्छेयम् इच्छेव इच्छेम
लृट् (भविष्यत्काल)
प्रथम पुरुष एषिष्यति एषिष्यतः एषिष्यन्ति
मध्यम पुरुष एषिष्यसि एषिष्यथः एषिष्यथ
उत्तम पुरुष एषिष्यामि एषिष्यावः एषिष्यामः
अनुवाद
जीव को नहीं मारना चाहिए — जीवं न हन्यात् ।
कृष्ण ने कंस को मारा— कृष्णः कंसम् अहन्।
क्या वे सर्पों को मारते हैं ? — किं ते सर्पान् घ्नन्ति ?
शीला ने कथा सुनी — शीला कथाम् अशृणोत् ।
लोग रामायण सुनें — जनाः रामायणं शृण्वन्तु ।
मैंने उनका उपदेश सुना — अहम् तस्य उपदेशम् अशृणवम् ।
छात्र विद्या चाहते हैं — छात्राः विद्याम् इच्छन्ति।
क्या तुम धन चाहते हो ? — किं त्वम् धनम् इच्छसि ?
वह ज्ञान चाहेगा — स ज्ञानम् एषिष्यति।
उसने फल की इच्छा की— स फलम् ऐच्छत्।
अभ्यास
1. संस्कृत में अनुवाद करें—
बाघ को मारना चाहिए। राम ने रावण को मारा। वह पालतू जीव को नहीं मारता है । देवदत्त ने महाभारत सुना। मैंने कथा नहीं सुनी। वे रामायण सुनते हैं। क्या लोग धन नहीं चाहते हैं? तुम पद चाहते हो। प्रह्लाद ने सिर्फ भक्ति चाही ।
शब्द-संकेत—
लोग— जनाः, धन— धनम्, ज्ञान — ज्ञानम्, बाघ को — व्याघ्रम्, पालतू — पोष्यम्, पद— पदम्, सिर्फ — केवलं
क्री (खरीदना)
लट् (वर्तमानकाल)
एकवचन द्विवचन बहुवचन
प्रथम पुरुष क्रीणाति क्रीणीतः क्रीणन्ति
मध्यम पुरुष क्रीणासि क्रीणीथः क्रीणीथ
उत्तम पुरुष क्रीणामि क्रीणीवः क्रीणीमः
लोट् (अनुज्ञा)
प्रथम पुरुष क्रीणातु, क्रीणीतात् क्रीणीताम् क्रीणन्तु
मध्यम पुरुष क्रीणीहि क्रीणीतात् क्रीणीतम् क्रीणीत
उत्तम पुरुष क्रीणानि क्रीणाव क्रीणाम
लङ् (भूतकाल)
प्रथम पुरुष अक्रीणात् अक्रीणीतम् अक्रीणन्
मध्यम पुरुष अक्रीणाः अक्रीणीतम् अक्रीणीत
उत्तम पुरुष अक्रीणाम् अक्रीणीव अक्रीणीम
विधिलिङ्
प्रथम पुरुष क्रीणीयात् क्रीणीयाताम् क्रीणीयुः
मध्यम पुरुष क्रीणीयाः क्रीणीयातम् क्रीणीयात
उत्तम पुरुष क्रीणीयाम् क्रीणीयाव क्रीणीयाम
लृट् (भविष्यत्काल)
प्रथम पुरुष क्रेष्यति क्रेष्यतः क्रेष्यन्ति
मध्यम पुरुष क्रेष्यसि क्रेष्यथः क्रेष्यथ
उत्तम पुरुष क्रेष्यामि क्रेष्यावः क्रेष्यामः
ग्रह् (लेना)
लट् (वर्तमानकाल)
एकवचन द्विवचन बहुवचन
प्रथम पुरुष गृह्णाति गृह्णीतः गृह्णन्ति
मध्यम पुरुष गृह्णासि गृह्णीथः गृह्णीथ
उत्तम पुरुष ह्णामि गृह्णीवः गृह्णीमः
लोट् (अनुज्ञा)
प्रथम पुरुष गृहणातु गृह्णीताम् गृहणन्तु
मध्यम पुरुष गृहाण गृहणीतम् गृहणीत
उत्तम पुरुष गृहणानि गृह्णाव गृहणाम
लङ् (भूतकाल)
प्रथम पुरुष अगृह्णात् अगृह्णीताम् अगृह्णन्
मध्यम पुरुष अगृह्णाः अगृह्णीतम् अगृह्णीत
उत्तम पुरुष अगृह्णाम् अगृह्णीव अगृह्णीम
विधिलिङ्
प्रथम पुरुष गृह्णीयात् गृहणीयाताम् गृह्णीयुः
मध्यम पुरुष गृहणीयाः गृह्णीयातम् गृह्णीयात
उत्तम पुरुष गृहणीयाम् गृह्णीयाव गृहणीयाम
लृट् (भविष्यत्काल)
प्रथम पुरुष ग्रहीष्यति ग्रहीष्यतः ग्रहीष्यन्ति
मध्यम पुरुष ग्रहीष्यसि ग्रहीष्यथः ग्रहीष्यथ
उत्तम पुरुष ग्रहीष्यामि ग्रहीष्यावः ग्रहीष्यामः
दिव् (चमकना, जुआ खेलना आदि)
लट् (वर्तमानकाल)
एकवचन द्विवचन बहुवचन
प्रथम पुरुष दीव्यति दीव्यतः दीव्यन्ति
मध्यम पुरुष दीव्यसि दीव्यथः दीव्यथ
उत्तम पुरुष दीव्यामि दीव्यावः दीव्यामः
लोट् (अनुज्ञा)
प्रथम पुरुष दीव्यतु दीव्यताम् दीव्यन्तु
मध्यम पुरुष दीव्य दीव्यतम् दीव्यत
उत्तम पुरुष दीव्यानि दीव्याव दीव्याम
लङ् (भूतकाल)
प्रथम पुरुष अदीव्यत् अदीव्यताम् अदीव्यन्
मध्यम पुरुष अदीव्यः अदीव्यतम् अदीव्यत
उत्तम पुरुष अदीव्यम् अदीव्याव अदीव्याम
विधिलिङ्
प्रथम पुरुष दीव्येत् दीव्येताम् दीव्येयुः
मध्यम पुरुष दीव्येः दीव्यतम् दीव्येत
उत्तम पुरुष दीव्येयम् दीव्येव दीव्येम
लृट् (भविष्यत्काल)
प्रथम पुरुष देविष्यति देविष्यतः देविष्यन्ति
मध्यम पुरुष देविष्यसि देविष्यथः देविष्यथ
उत्तम पुरुष देविष्यामि देविष्यावः देविष्यामः
नृत् (नाचना)
लट् (वर्तमानकाल)
एकवचन द्विवचन बहुवचन
प्रथम पुरुष नृत्यति नृत्यतः नृत्यन्ति
मध्यम पुरुष नृत्यसि नृत्यथः नृत्यथ
उत्तम पुरुष नृत्यामि नृत्यावः नृत्यामः
लोट् (अनुज्ञा)
प्रथम पुरुष नृत्यतु, नृत्यतात् नृत्यताम् नृत्यन्तु
मध्यम पुरुष नृत्य, नृत्यतात् नृत्यतम् नृत्यत
उत्तम पुरुष नृत्यानि नृत्याव नृत्याम
लङ् (भूतकाल)
प्रथम पुरुष अनृत्यत् अनृत्यताम् अनृत्यन्
मध्यम पुरुष अनृत्यः अनृत्यतम् अनृत्यत
उत्तम पुरुष अनृत्यम् अनृत्याव अनृत्याम
विधिलिङ्
प्रथम पुरुष नृत्येत् नृत्येताम् नृत्येयुः
मध्यम पुरुष नृत्येः नृत्येतम् नृत्येत
उत्तम पुरुष नृत्येयम् नृत्येव नृत्येम
लृट् (भविष्यत्काल)
प्रथम पुरुष नर्तिष्यति नर्तिष्यतः नर्तिष्यन्ति
मध्यम पुरुष नर्तिष्यसि नर्तिष्यथः नर्तिष्यथ
उत्तम पुरुष नर्तष्यामि नर्तिष्यावः नर्तिष्यामः
अथवा
प्रथम पुरुष नर्त्स्यति नर्त्स्यतः नर्त्स्यन्ति
मध्यम पुरुष नस्यसि नर्त्स्यथः नर्त्स्यथ
उत्तम पुरुष नत्स्यार्मी नत्स्यार्व नत्स्यार्म:
कुछ धातुओं के सांकेतिक रूप
अग्रलिखित धातुओं के रूप 'नृत्' धातु के समान होते हैं। प्रथम पुरुष के एकवचन में कुछ लकारों के रूप दिए गए हैं।
धातु अर्थ लट् लोट् लङ् लृट्
पुष् (विकसना) पुष्यति पुष्यतु अपुष्यत् पोक्ष्यति
शुष् (सूखना) शुष्यति शुष्यतु अशुष्यत् शोक्ष्यति
दुष् (दोष लगना) दुष्यति दुष्यतु अदुष्यत् दोक्ष्यति
तुष् (संतुष्ट होना) तुष्यति तुष्यतु अतुष्यत् तोक्ष्यति
नश् (नाश होना) नश्यति नश्यतु अनश्यत् नंक्ष्यति
त्रस् (डरना) त्रस्यति त्रस्यतु अत्रस्यत् सिष्यति
सिव् (सीना) सीव्यति सीव्यतु असीव्यत् सेविष्यति
सिध् (सिद्ध करना) सिध्यति सिध्यतु असिध्यत् सेत्स्यति
क्षुध् (भूखा होना) क्षुध्यति क्षुध्यतु अक्षुध्यत् क्षोत्स्यति
क्रुध् (क्रोध करना) क्रुध्यति क्रुध्यतु अक्रुध्यत् क्रोत्स्यति
शुध् (शुद्ध होना) शुध्यति शुध्यतु अशुध्यत् शोत्स्यति
व्यध् (बींधना) विध्यति विध्यतु अविध्यत् व्यत्स्यति
लुभ् (लोभ करना) लुभ्यति लुभ्यतु अलुभ्यत् लोप्स्यती
तृप् (तृप्त होना) तृप्यति तृप्यतु अतृप्यत् तर्प्यति
शम् (शान्त होना) शाम्यति शाम्यतु अशाम्यत् शमिष्यति
क्षम् (क्षमा करना) क्षाम्यति क्षाम्यतु अक्षाम्यत् क्षमिष्यति
दम् (दमन करना) दाम्यति दाम्यतु अदाम्यत् दमिष्यति
द्रुह् (द्रोह करना) द्रुह्यति द्रुह्यतु अद्रुह्यत् ध्रोक्ष्यति
स्निह् (स्नेह करना) स्निह्यति स्निह्यतु अस्निह्यत् स्नेक्ष्यत
कथ् (कहना)
लट् (वर्तमानकाल)
एकवचन द्विवचन बहुवचन
प्रथम पुरुष कथयति कथयतः कथयन्ति
मध्यम पुरुष कथयसि कथयथः कथयथ
उत्तम पुरुष कथयामि कथयावः कथयामः
लोट् (अनुज्ञा)
प्रथम पुरुष कथयतु कथयताम् कथयन्ति
मध्यम पुरुष कथय कथयतम् कथयत
उत्तम पुरुष कथयानि कथयाव कथयाम
लङ् (भूतकाल)
प्रथम पुरुष अकथयत् अकथयताम् अकथयन्
मध्यम पुरुष अकथयः अकथयतम् अकथयत
उत्तम पुरुष अकथयम् अकथयाव अकथयाम
विधिलिङ्
प्रथम पुरुष कथयेत् कथयेताम् कथयेयुः
मध्यम पुरुष कथयेः कथयेतम् कथयेत
उत्तम पुरुष कथयेयम् कथयेव कथयेम
लृट् (भविष्यत्काल)
प्रथम पुरुष कथयिष्यति कथयिष्यतः कथयिष्यन्ति
मध्यम पुरुष कथयिष्यसि कथयिष्यथः कथयिष्यथ
उत्तम पुरुष कथयिष्यामि कथयिष्यावः कथयिष्यामः
चुर् (चुराना)
लट् (वर्तमानकाल)
एकवचन द्विवचन बहुवचन
प्रथम पुरुष चोरयति चोरयतः चोरयन्ति
मध्यम पुरुष चोरयसि चोरयथः चोरयथ
उत्तम पुरुष चोरयामि चोरयावः चोरयामः
लोट् (अनुज्ञा)
प्रथम पुरुष चोरयतु चोरयताम् चोरयन्तु
मध्यम पुरुष चोरय चोरयतम् चोरयत
उत्तम पुरुष चोरयाणि चोरयाव चोरयाम
लङ् (भूतकाल)
प्रथम पुरुष अचोरयत् अचोरयताम् अचोरयन्
मध्यम पुरुष अचोरयः अचोरयतम् अचोरयत
उत्तम पुरुष अचोरयम् अचोरयाव अचोरयाम
विधिलिङ्
प्रथम पुरुष चोरयेत् चोरयेताम् चोरयेयुः
मध्यम पुरुष चोरयेः चोरयेतम् चोरयेत
उत्तम पुरुष चोरयेयम् चोरयेव चोरयेम
लृट् (भविष्यत्काल)
प्रथम पुरुष चोरयिष्यति चोरयिष्यतः चोरयिष्यन्ति
मध्यम पुरुष चोरयिष्यसि चोरयिष्यथः चोरयिष्यथ
उत्तम पुरुष चोरयिष्यामि चोरयिष्यावः चोरयिष्यामः
नश् (नाश होना)
लट् (वर्तमानकाल)
एकवचन द्विवचन बहुवचन
प्रथम पुरुष नश्यति नश्यतः नश्यन्ति
मध्यम पुरुष नश्यसि नश्यथः नश्यथ
उत्तम पुरुष नश्यामि नश्यावः नश्यामः
लोट् (अनुज्ञा)
प्रथम पुरुष नश्यतु नश्यताम् नश्यन्तु
मध्यम पुरुष नश्य नश्यतम् नश्यत
उत्तम पुरुष नश्यानि नश्याव नश्याम
लङ् (भूतकाल)
प्रथम पुरुष अनश्यत् अनश्यताम् अनश्यन्
मध्यम पुरुष अनश्यः अनश्यतम् अनश्यत
उत्तम पुरुष अनश्यम् अनश्याव अनश्याम
विधिलिङ्
प्रथम पुरुष नश्येत् नश्येताम् नश्येयुः
मध्यम पुरुष नश्येः नश्येतम् नश्येत
उत्तम पुरुष नश्येयम् नश्येव नश्येम
लृट् (भविष्यत्काल)
प्रथम पुरुष नंक्ष्यति नंक्ष्यतः नंक्ष्यन्ति
मध्यम पुरुष नंक्ष्यसि नंक्ष्यथः नंक्ष्यथ
उत्तम पुरुष नंक्ष्यामि नंक्ष्यावः नंक्ष्यामः
चि (चुनना)
लट् (वर्तमानकाल)
एकवचन द्विवचन बहुवचन
प्रथम पुरुष चिनोति चिनुतः चिन्वन्ति
मध्यम पुरुष चिनोषि चिनुथः चिनुथ
उत्तम पुरुष चिनोमि चिनुवः, चिन्वः चिनुमः, चिन्मः
लोट् (अनुज्ञा)
प्रथम पुरुष चिनोतु चिनुताम् चिन्वन्तु
मध्यम पुरुष चिनु चिनुतम् चिनुत
उत्तम पुरुष चिनुवनि चिनुवाव चिनुवाम
लङ् (भूतकाल)
प्रथम पुरुष अचिनोत् अचिनुताम् अचिन्वन्
मध्यम पुरुष अचिनोः अचिनुतम् अचिनुत
उत्तम पुरुष अचिन्वम् अचिनुव, अचिन्व अचिनुम, अचिन्म
विधिलिङ्
प्रथम पुरुष चिनुयात् चिनुयाताम् चिनुयुः
मध्यम पुरुष चिनुयाः चिनुयातम् चिनुयात
उत्तम पुरुष चिनुयाम् चिनुयाव चिनुयाम
लृट् (भविष्यत्काल)
प्रथम पुरुष चेष्यति चेष्यतः चेष्यन्ति
मध्यम पुरुष चेष्यसि चेष्यथः चेष्यथ
उत्तम पुरुष चेष्यामि चेष्यावः चेष्यामः
सु (रस निचोड़ना, नहाना)
लट् (वर्तमानकाल)
एकवचन द्विवचन बहुवचन
प्रथम पुरुष सुनोति सुनुतः सुन्वन्ति
मध्यम पुरुष सुनोषि सुनुथः सुनुथ
उत्तम पुरुष सुनोमि सुनुवः, सुन्वः सुनुमः, सुन्मः
लोट् (अनुज्ञा)
प्रथम पुरुष सुनोतु सुनुताम् सुन्वन्तु
मध्यम पुरुष सुनु सुनुतम् सुनुत
उत्तम पुरुष सुनवानि सुनवाव सुनवाम
लङ् (भूतकाल)
प्रथम पुरुष असुनोत् असुनुताम् असुन्वन्
मध्यम पुरुष असुनोः असुनुतम् असुनुत
उत्तम पुरुष असुनवम् असुनुव, असुन्व असुनुम, असुन्म
विधिलिङ्
प्रथम पुरुष सुनुयात् सुनुयाताम् सुनुयुः
मध्यम पुरुष सुनुयाः सुनुयातम् सुनुयात
उत्तम पुरुष सुनुयाम् सुनुयाव सुनुयाम
लृट् (भविष्यत्काल)
प्रथम पुरुष सोष्यति सोष्यतः सोष्यन्ति
मध्यम पुरुष सोष्यसि सोष्यथः सोष्यथ
उत्तम पुरुष सोष्यामि सोष्यावः सोष्यामः
कुछ धातुओं के सांकेतिक रूप
निम्नलिखित धातुओं के रूप 'कथ्' धातु के समान होते हैं। प्रथम पुरुष के एकवचन में कुछ लकारों के रूप दिए गए हैं।
धातु अर्थ लट् लोट् लङ् लृट्
कथ् (कहना) कथयति कथयतु अकथयत् कथयिष्यति
अर्थ (माँगना) अर्थयति अर्थयतु आर्थयत् अर्थयिष्यति
गण् (गिनना) गणयति गणयतु अगणयत् गणयिष्यति
पूज् (पूजना) पूजयति पूजयतु अपूजयत् पूजयिष्यति
तड् (पीटना) ताडयति ताडयतु अताडयत् ताडयिष्यति
तुल् (तौलना) तोलयति तोलयतु अतोलयत् तोलयिष्यति
दण्ड् (सजा देना) दण्डयति दण्डयतु अदण्डयत् दण्डयिष्यति
भक्ष् (खाना) भक्षयति भक्षयतु अभक्षयत् भक्षयिष्यति
रच् (बनाना) रचयति रचयतु अरचयत् रचयिष्यति
पीड् (पीड़ा देना) पीडयति पीडयतु अपीडयत् पीडयिष्यति
क्षल् (धोना) क्षालयति क्षालयतु अक्षालयत् क्षालयिष्यति
पाल् (पालना) पालयति पालयतु अपालयत् पालयिष्यति
वर्ण (वर्णन करना) वर्णयति वर्णयतु अवर्णयत् वर्णयिष्यति
भूष् (सजाना) भूषयति भूषयतु अभूषयत् भूषयिष्यति
तप् (तपाना) तापयति तापयतु अतापयत् तापयिष्यति
सूच् (सूचना देना) सूचयति सूचयतु असूचयत् सूचयिष्यति
गवेष् (ढूँढ़ना) गवेषयति गवेषयतु अगवेषयत् गवेषयिष्यति
प्री (खुश करना) प्रीणयति प्रीणयतु अप्रीणयत् प्रीणयिष्यति
चिन्त् (सोचना) चिन्तयति चिन्तयतु अचिन्तयत् चिन्तयिष्यति
वर्ज् (रोकना) वर्जयति वर्जयतु अवर्जयत् वर्जयिष्यति
अनुवाद
उसने आम का रस निचोड़ा— स आम्रस्य रसं असुनोत् ।
वे दुकान में वस्त्र खरीदते हैं— ते आपणे वस्त्राणि क्रीणान्ति ।
रमा साग नहीं खरीदती है— रमा शाकं न क्रीणाति ।
किसान खाद खरीदेंगे — कृषकाः उर्वरकं क्रेष्यन्ति।
सभापति अपना आसन ग्रहण करते हैं— सभापतिः स्वकीयं आसनं गृह्णाति ।
दूसरे की वस्तु नहीं लेनी चाहिए — परस्य वस्तु न गृह्णीयात्।
आप इस भेंट को ग्रहण करें — भवान् इमम् उपहारं गृह्णातु।
बरसात में मोर नाचते हैं — प्रावृषि मयूराः नृत्यन्ति ।
वह लड़की नाची— सा बालिका अनृत्यत्।
उसका धन नष्ट हो गया— तस्य धनं अनश्यत् ।
लड़के फूल चुनते हैं— बालकाः पुष्पाणि चिन्वन्ति ।
चोरों ने कपड़े चुरा लिए — चौराः वस्त्राणि अचोरयन् ।
अभ्यास
1. संस्कृत में अनुवाद करें—
लड़के फल नहीं खरीदते हैं। राम कपास खरीदता है। छात्र कॉपियाँ खरीदेंगे। वह अपना कपड़ा लेता है। दूसरे का धन नहीं लेना चाहिए। तुम घूस मत लो। नाटक में लड़के नाचते हैं। उसे नहीं नाचना चाहिए। आज नचनिया नहीं नाचा । लड़के लड्डू चुराते हैं। राधा ने फूल चुन लिए (अचिनोत्)। चोर का धन नष्ट हो जाए (नाश्यतु) । मोहन फल का रस निचोड़ता है।
शब्द-संकेत—
साग—शाकम्, खाद — उर्वरकम्, अपना — स्वकीयम्, भेंट को — उपहारम्, कपास— कार्पासम्, कॉपियाँ — उत्तरपुस्तिकाः, कप्पिकाः, घूस — उत्कोचम्। नचनिया — नर्तकः मत — मा
2. कोष्ठक में दिए गए दो शब्दों में से किसी एक युक्तिसंगत शब्द के द्वारा रिक्त स्थानों की पूर्ति करें—
सर्वाः ....... जलपूरिताः आसन् (नद्यः, नद्याः) । ते सर्पम् ......... (हन्ति, घ्नन्ति)। अस्मिन् देशे ...... न सन्ति (राजः, राजानः ) । तस्मै ........ नमः (गुरुं, गुरवे)। अत्र ....... सन्ति (गुणयः, गुणिनः) । विद्वांसः प्रतिष्ठाम् ....... (इच्छष्यन्ति, एषिष्यन्ति ) । सर्वाः बालाः कथां न ....... (श्रुणन्ति, शृण्वन्ति) । ग्रामात् ...... विद्वांसः गच्छन्ति (त्रयः, तिस्रः) । गृहे ....... बालकौ स्तः (द्वौ द्वे)। सभायां पञ्च ...... अनृत्यन् (बालिका, बालिकाः) ।
3. निम्नलिखित वाक्यों में जो शुद्ध हों, उनपर √ लगाएँ।
ब्राह्मणम् गवम् ददाति — ब्राह्मणाय गां ददाति । किं तत्र श्रीमन्तः गच्छन्ति ? किं तत्र श्रीमताः गच्छन्ति ? जनाः वस्त्रं क्रीणन्ति — जनः वस्त्रं क्रीणान्ति । गृहस्य आरात् तडागम् अस्ति— गृहात् आरात् तडागः अस्ति । वर्गे पञ्चविंशतिः छात्राः आसन् — वर्गे पञ्चविंशतयः छात्राः आसन्। चत्वारः वृषभाः चरन्ति — चतस्रः वृषभः चरन्ति। सुरेशः दिनेशः पठति — सुरेशः दिनेशः च पठतः । राजमार्गे कः बालिका गच्छति ? — राजमार्गे का बालिका गच्छति? छात्राः शिक्षकं पृच्छन्ति— छात्राः शिक्षकेन पृच्छन्ति। अभिनये बालिकाः अनृत्यन्— अभिनये बालिका अनृत्यन्। दिनेश — महेशौ नृत्यतः – दिनेशः महेशः नृत्यति।
4. निम्नलिखित धातु-रूपों में जो शुद्ध हों, उनपर √ लगाएँ।
हनीहि— जहि, अहन्— अहनत्, हनात् — हन्यात्, इच्छेत् — एषयेत्, गृह्णान्तु — गृह्णन्तु, अकरोत्—अकुर्वत्, अशृणुत — अशृणोत्, शृणोसि — शृणोषि, अनृत्यत्— अनृतत्
5. निम्नलिखित धातुओं के रूप उनके सामने दिए गए लकार, पुरुष तथा वचन में लिखें।
चुर — लोट् लकार, उत्तम पुरुष, एकवचन
सु — लट् लकार, प्रथम पुरुष, बहुवचन
इष् — लङ् लकार, मध्यम पुरुष, द्विवचन
6. निम्नलिखित धातुओं के रूप उनके सामने दिए गए लकार, पुरुष तथा वचन में लिखें।
क्री— लट् लकार, प्रथम पुरुष, बहुवचन
चि— लृट् लकार, मध्यम पुरुष, द्विवचन
दिव्— लङ् लकार, उत्तम पुरुष, एकवचन
7. निम्नलिखित धातुओं के रूप उनके सामने दिए गए लकार, पुरुष और वचन में लिखें।
नश् — लोट् लकार, प्रथम पुरुष, एकवचन
ग्रह् — लट् लकार, मध्यम पुरुष, बहुवचन
तन् — विधिलिङ्, उत्तम पुरुष, द्विवचन
8. निम्नलिखित धातुओं के रूप सामने दिए गए लकार, पुरुष और वचन में लिखें।
कथ्— लङ् लकार, प्रथम पुरुष, बहुवचन
वद्— लृट् लकार, उत्तम पुरुष, एकवचन
कृ— लोट् लकार, मध्यम पुरुष, द्विवचन
9. निम्नलिखित धातुपदों का वाक्यों में प्रयोग करें।
चेष्यति, अनृत्यन्, कथयतु, आसीत्, द्रक्ष्यति, अतिष्ठत्, देहि, नेष्यति
धातुकोश
खेल्— खेलति = खेलता है
धाव् — धावति = दौड़ता है
रट् — रटति = रटता है
कूज्— कूजति = कूजता है
खन् — खनति = खोदता है
हस् — हसति = हँसता है
धम् — धमति = फूँकता है
गल्— गलति = गलता है
अट्— अटति = घूमता है
रक्ष — रक्षति = रक्षा करता है
पत्— पतति = गिरता है
क्रीड् — क्रीडति = खेलता है
चल्— चलति = चलता है
गजर्— गर्जति = गरजता है
भ्रम— भ्रमति = घूमता है
स्मृ— स्मरति = याद करता है
लुण्ठ्— लुण्ठति = लूटता है
अर्च् — अर्चति = पूजता है
अजर्— अर्जति = कमाता है
वृष्— वर्षति = बरसता है
घृष्— घर्षति = घिसता है
स्खल्— स्खलति = पिघलता है
दह्— दहति = जलता है
भूष् — भूषति = सजता है
मन्थ्— मन्थति = मथता है
नम् — नमति = झुकता है, प्रणाम करता है
प्र-नम् — प्रणमति = प्रणाम करता है
ज्वल्— ज्वलति = जलता है
व्रज्— व्रजति = जाता है
तर्ज— तर्जति = डाँटता है
दश्— दशति = हँसता है
त्रुट् — त्रुट्यति = टूटता है
लुठ् — लुठति = लोटता है
क्षिप्— क्षिपति = फेंकता है
मिल्— मिलति = मिलता है
जीव् — जीवति = जीता है
द्रव्— द्रवति = पिघलता है
लिम्प्— लिम्पति = लीपता है
सु— स्रवति = चूता है
नद्— नदति = आवाज करता है
सद् — सीदति = दुःखी होता है
नी— नयति = ले जाता है
वह — वहति = ढोता है
कृ— किरति = बिखेरता है
चर्― चरति = चरता है
कृष्— कर्षति = खींचता है
निन्द्— निन्दति = निंदा करता है
फल्— फलति = फलता है
जप्— जपति = जपता है
वाञ्छ्— वाञ्छति = चाहता है
शुच् — शोचति = शोक करता है
धृ— धरति = पकड़ता है
क्रन्द्— क्रन्दति = रोता है
फुल्ल — फुल्लति = फूलता है
क्रुश — क्रोशति = चिल्लाता है
बुध्— बोधति = जानता है
रुह्— रोहति = उगता है
त्यज् — त्यजति = त्यागता है
शंस् — शंसति = स्तुति करता है
प्र-शंस्— प्रशंसति = प्रशंसा करता है
वप्— वपति = बोता है
पच्— पचति = पकाता है
गृ— गिरति = निगलता है
स्पृश — स्पृशति = छूता है
सृज्— सृजति = बनाता है
क्षर् — क्षति = झरता है
लुञ्च्— लुञ्चति = चोंथता है
मुच्— मुञ्चति = छोड़ता है
सिच्— सिञ्चति = सींचता है
छिद्— छिनत्ति = छेदता है
स्फुट् — स्फुटति = फूटता है
स्फुर— स्फुरति = फड़कता है
गै— गायति = गाता है
प्रच्छ्— पृच्छति = पूछता है
विश्— विशति = प्रवेश करता है
कृत — कृन्तति = काटता है
दुहू — दोग्धि = दूहता है
भी— बिभेति = डरता है
जागृ— जागर्ति = जागता है
स्वप्— स्वपिति = सोता है
उपसर्गादि से युक्त कुछ क्रियाएँ
अङ्गीकरोति— स्वीकार करता है
दूरीकरोति — दूर करता है
तिरस्करोति— तिरस्कार करता है
चमत्करोति— चमकता है
आविष्करोति— आविष्कार करता है
परिचरति— सेवा करता है
आचरति— आचरण करता है
संतपति— दुःख भोगता है
विलपति — विलाप करता है
विक्रीणाति — बेचता है
विस्मरति — भूलता है
पराभवति— हारता है
आहरति— लाता है
उद्धरति— उद्धार करता है
अनुनयति — मनाता है
प्रणयति — बनाता है
निर्णयति — फैसला करता है
विरमति— रुकता है
अपवदति — गाली देता है
आह्वयति— बुलाता है
निमीलयति — बंद करता है
निमज्जति— डूबता है
अनुवाद
आकाश में बिजली चमकती है — आकाशे विद्युत् चमत्करोति।
सज्जन रोगी की सेवा करते हैं — सज्जनाः रुग्णं परिचरन्ति।
मूर्ख लोग गाली बकते हैं — मूर्खाः जनाः अपवदन्ति।
दिनेश पाठ भूलता है — दिनेशः पाठं विस्मरति ।
रमेश घोड़ा बेचता है — रमेशः अश्वं विक्रीणाति ।
अभ्यास
1. संस्कृत में अनुवाद करें—
न्यायाधीश फैसला करता है । लक्ष्मण के घायल होने पर (आहते लक्ष्मणे) राम ने विलाप किया था। रमेश सुरेश को बुलाता है। वैज्ञानिक नई (नूतनम् ) वस्तु का आविष्कार करता है। नदी में नाव डूब गई। युद्ध में शत्रु हारेंगे। अकर्मण्य दुःख भोगते हैं।
***